निर्दिश्यमानस्येति। प्रत्यक्षनिर्दिशय्मानस्यैवेत्यर्थः। अनया परिभाषया जराशब्दस्यैव जरस्। जराशब्द एव ह्रत्र स्थानी प्रत्यक्षनिर्दिष्टः। जराशब्दान्तस्य तु निर्द्देशस्तदन्तविधिलभ्यत्वादानुमानिक इति भावः। इयञ्च परिभाषा "षष्ठी स्थानेयोगे"ति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम्। ननु निर्जरशब्दस्य जराशब्दान्तत्वाऽभावात्कथमिह जरसादेश इत्यत आह--एकदेशेति। "छिन्नेऽपि पुच्छे ()आआ ()औव, न चा()आओ नच गर्दभ" इति न्यायादिति भावः। निर्जरसा। निर्जरस इति। प्रथमाद्वितीययोर्द्विवचने बहुवचने च रूपम्। अमि "निर्जरस"मित्युदाहार्यम्। ननु तृतीयैकवचने पञ्चम्येकवचने च्, निर्जर-आ, निर्जर-अस् इति स्थिते इनाऽऽतोः कृतयोर्जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तं, तथा चतुर्थ्येकवचने षष्ठ()एकवचने च-निर्जर ए, निर्जर अस्-इति स्थिते, यादेशे, स्यादेशे च सत्यजादिविभक्त्यभावाज्जरसादेशाऽभावे निर्जराय निर्जरस्येति प्राप्तं, तत्राह--इनादीनिति। इन-य-आत्-स्येत्यादेशान्-नुटं च परत्वाद्बाधित्वा जरसादेशः। ततस्च अदन्तत्वाऽभावादिनादयो न भवतीत्यर्थः।
निर्जरसेति। तृतीयैकवचनम्। निर्जसरे इति--चतुर्थ्येकवचनम्। निर्जरस इति--पञ्चम्येकवचने षष्ठ()एकवचने च रूपम्। निर्जरसोः, निर्जरसां, निर्जरसीत्यप्युदाहार्यम्। पक्ष इति। जरसादेशाऽभावपक्ष इत्यर्थः। हलादौ चेति। भिस ऐसादेशे "निर्जरै" रित्येव रूपं न तु जरसादेशे निर्जरसैरिति। अदन्तमङ्गमाश्रित्य प्रवृत्तस्यैसः संनिपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वाऽयोगात्।
अत वृत्तिकुदुत्प्रेक्षितं मतान्तरं दूषयितुमनुवदति--वृत्तिकृता त्वित्यादिना। "पूर्वविप्रतिषेधेनेत्यादि केचि"दित्यन्तो वृत्तिग्रन्थः। वृत्तिकृता तु इनातोः कृतयोर्जरसि कृते निर्जरसादिति रूपं, न तु निर्जरस इति केचिदित्युक्तमित्यन्वयः। ननु इनादेशमादादेशं च परत्वाद्बाधित्वा जरसि कृते।ञदन्तत्वाऽभावात्कथमिनातौ स्यातामित्यत आह--पूर्वविप्रतिषेधेनेति। विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोध्यते तत् पूर्वप्रतिषेधं="विप्रतिषेधे परं कार्य"मिति सूत्रं तेनेत्यर्थः। तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित्पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्॥ नन्विनातोः कृतयोः कतं जरसादेशः, संनिपातपरिभाषाविरोधादित्यत आह--संनिपातपरिभाषाया इति। तथेति। भिस ऐसादेशे जरसादेशाऽभावपक्षे निर्जरैरिति रूपम्। संनिपातपरिभाषाया अन्त्यत्वाज्जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः। तदनुसारिभिति। निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारिभिरित्यर्थः। निर्जरस्येत्येवेति। पूर्वविप्रतिषेधेन स्यादेशे कृतेऽजादिविभक्त्यभावान्न जरस्। इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात्स्यादेशविषयेऽपि पूर्वविप्रतिषेध आश्रयितुमुचितः। अतो निर्जरस्येत्येकमेव रूपं,न तु "निर्जरस" इत्यपीति भावः।
एतच्चेति। वृत्तिकृदुत्प्रेक्षितं केषांचिन्मतं, तदनुसारिमतं चेत्यर्थः। भाष्यविरुद्धमिति। "टाङसिङसामिनात्स्याः" इत्यत्र नादेश एव विधेयः, इकारोच्चारणं मास्तु। तथा अदादेश एव विधेयो नतु दीर्घ आदिति। रामेणेत्यत्र एकारस्तु योगविभागाद्भवति, तथाहि "बहुवचने झल्येत्" "ओसि च" "आङि चापः" "संबुद्धौ चे"ति सूत्रक्रमः। तत्र आङीति योगविभागः क्रियते। अत एकारः स्यादङि। रामेण। "आपः संबुद्धौ चे"ति सूत्रक्रमः। तत्र आङीति योगविभागः क्रियते। अत एकारः स्यादाङि। रामेण। "आपः संबुद्धौ चे"त्यन्यो योगः। एकारः स्यात्सम्बुद्धौ आङि ओसि च। हे रमे रमया रमयोः। ङसेरदादेशे अकारोच्चारणसामथ्र्यात् "अतो गुणे" इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम्। निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्याऽसङ्गति स्पष्टैव। अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात्। किंच "गोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्यं संनिपातपरिभाषया" इति "जराया जरसन्यतरस्या"मिति सूत्रे भाष्ये स्थितम्। निर्जरसैरिति रूपाभ्युपगमे #एतदसङ्गतिः स्पष्टैव। अतः पूर्वविप्रतिषेधेनेत्यादि मतान्तरमशुद्धमित्यर्थः।
पदाङ्गाधिकार इति। परिभाषेयं "येन विधि"रित्यस्य प्रपञ्चभूता। अतएव मनोरमायां पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि"रित्युक्तम्। "विशेष्य"मिति तु प्रायेणेति बोध्यम्। तेन "अल्लोपोऽनः" इति सूत्रे "अङ्गावयवो योऽ"निति वक्ष्यमाणग्रन्थः [स्वरसतः] सङ्गच्छते। अत्र नव्याः--"नन्वाकारे "तस्य तदुत्तरपदस्य चे"ति प्रचुरः पाठः। "तदन्तस्य चे"ति पाठे तु बहुच्पूर्वकेषु न प्रवर्तन्त इत्याशयेन फलितार्थकथनपरतया "तदुत्तरपदस्य चे"ति पठितं न त्विदमपूर्वं वचन"मिति। सोपसर्गस्य सर्वस्य स्थाने जरसादेशमाशङ्क्याह।
निर्दिश्येति। ननु तदन्तविधिनाऽपि जराशब्दान्तं यदङ्गं तत्रैव निर्दिश्यमानजराशब्दे जरसादेशेन भवितव्यं, न त्वन्यत्रेत्यत आह-एकदेशविकृतस्येति। पदाधिकारेऽपि तदन्तविधाबुदाहरणं--तदन्तस्यापि रुत्वरत्वे "दीर्घाहा निदाघ" इति वक्ष्यति। "अलुगुत्तरपदे" इत्ययमुत्तरपदाधिकारोऽपि पदाधिकारग्रहणेन गृह्रते। तत्फलं तु तत्रैव स्फुटीकरिष्यति। पक्षे इति। जरसादेशभावे।
तदनुसारिभिरिति। ये तु "निर्जरसिने"त्यादि व्याचक्षते तन्मतानुसारिभिरित्यर्थः। निर्जरस्येत्येवेति। पूर्वविप्रतिषेधेन स्यादेशे कृते जरसादेशो न प्रवर्तत इत्येकमेव रूपमिति तेषामाशयः। अतएव "वीतजन्मजरसः परं शुचिब्राहृणः पद"मिति भारविप्रयोगमसमञ्जसं मत्वा "वीतजन्मरजसः" इति पठनीयमिति तैरुक्तम्। एतच्चेति। भाष्यकृताहि "टाङ्सी"ति सूत्रे इनातौ प्रत्याख्याय, नादेशमदादेशं च विधाय, नादेशे परे एत्वम् "आङि चे"ति योगं विभज्य साधितम्। तथा च निर्जरसिनः" निर्जरसा"दित्येतद्भाष्यविरुद्धमिति स्पष्टमेव। न च नादेशे कृते हलि लोपप्रवृत्त्या "अनेने"त्येतन्न सिध्यतीति शङ्क्यम्, नशब्दे परतो विशिष्याऽनादेशविधानात्। तथाहि "अनाप्यकः; इत्यत्र "अन्-नापि" इति पदच्छेदः। नपुंसकत्वात्सोर्लुकि नलोपः। "नापी"ति समाहारद्वन्द्वात्सप्तम्येकवचनम्। न च ङसेरदादेशे कृते पररूपं स्यादित्यपि शङ्क्यम् , अकारोच्चारणसामथ्र्याद्दीर्घसंभवात्। तथा "जराया जरसन्यतरस्या"मित्यस्मिन्नेव सूत्रे भाष्ये उक्तम्-"अतिजरैरिति भवितव्यं संनिपातपरिभाषये"ति। ततश्च "निर्जरसै"रित्यपि बाष्यविरुद्धमेव। एतेन "अतो भिसः" इति सूत्रे "ए"सिति वक्तव्ये ऐस्करणं "निर्जरसै"रिति रूपार्थमिति केषांचिद्व्याख्यानं प्रामादिकमिति स्पष्टमेव।